सूत्रम्
अणो द्व्यचः॥ ४।१।१५६
काशिका-वृत्तिः
अणो द्व्यचः ४।१।१५६
अणन्ताद् द्व्यचः प्रातिपदिकादपत्ये फिञ् प्रत्ययो भवति। इञो ऽपवादः। कार्त्रायणिः। हार्त्रायणिः। अणः इति किम्? दाक्षायणः। द्व्यचः इति किम्? औपगविः। त्यदादीनां वा फिञ् वक्तवय्H। त्यादायनिः, त्यादः। यादायनिः, यादः। तादायनिः, तादः। अणत्र प्राप्तः।
बाल-मनोरमा
अणो द्व्यचः ११६२, ४।१।१५६
अणो द्व्यचः। अपत्ये फिञिति। शेषपूरणमिदम्। द्व्यचोऽण्प्रत्यान्तादपत्ये फिञित्यर्थः। कात्र्रायणिरिति। कर्तु छात्रः कार्त्रः। "तस्येद"मित्यणम्। कात्र्रस्यापत्यं कात्र्रायणिः। फिञि आयन्नादेशे णत्वम्। दाक्षायण इति। दक्षस्यापत्यं दाक्षिः। अत इञ्। दाक्षेरपत्यं दाक्षायणः। "यञिञोश्चे"ति फक्। अण्णन्तत्वाऽभावान्नफिञिति भावः। औपगविरिति। उपगोर्गोत्रापत्यमौपगवः। तस्यापत्यमौपगविः युवा। द्व्यच्त्वाऽभावान्न फिञिति भावः। कर्तुरपत्ये तु कुर्वादिगणे पा
ठाण्ण्य एवेति बोध्यम्।
त्यदादीनां फिञ्वा वाच्यः। त्यादायनिः त्यादः" इति क्वचित्पुस्तके दृश्यते। तत्तु प्रामादिकं, "त्यदादीनि चे"ति त्यदादीनां वृद्धत्वात् "उदीचां वृद्धा"दित्येव सिद्धेः, भाष्येऽस्य वार्तिकस्याऽदर्शनाच्च।
तत्त्व-बोधिनी
अणो द्व्यचः ९६१, ४।१।१५६
कात्र्रायणिरिति। कर्तुरपत्यं कात्र्रस्तस्यापत्यं तु कात्र्रायणिः। अत्र व्याचक्षते---कर्तृशब्दः कुर्वादिषु षठ()ते। तथा च "कार्त्र्यः"इत्येव वद्र्धमानेनोदाह्मतं, तस्मादिह भर्तृहत्र्राद्युदाहार्यमिति। दाक्षिरिति। "वा नामधेयस्ये"ति वृद्धसंज्ञाऽभावपक्षे प्रत्युदाहरणमिदम्। पक्षान्तरे तु फिञ्भवत्येव। "दाक्षायण्योऽ()इआनीत्यादि ताराः"इत्यमरः।